बाबा उपद्रवीनाथ का चिट्ठा / भाग 35 / कमलेश पुण्यार्क

Gadya Kosh से
यहाँ जाएँ: भ्रमण, खोज

(ॠ)-ॠकारंपरमेशानि स्वयं परमकुण्डलम्। पीतविद्युतल्लताकारं पञ्चदेवमयं सदा। चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा। त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये॥

(लृ)- लृकारं चञ्चलापाङ्गि कुण्डली परदेवता। अत्र ब्रह्मादयः सर्वे तिष्ठन्ति ससतं प्रिये॥

पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा। पञ्चप्राणयुतं वर्ण तथा गुणत्रयात्मकम्॥ विन्दुत्रयात्मकं वर्णं पीतविद्युल्लता तथा।

(ए)- एकारं परमेशानि ब्रह्मविष्णुशिवात्मकम्। रञ्जनीकुसुमप्रख्यं पञ्चदेवमयं सदा॥ पञ्चप्राणात्मकं वर्ण तथा विन्दुत्रयात्मकम्। चतुर्वर्गप्रदं देवि स्वयं परमकुण्डली॥

(ऐ)- ऐकारंपरमंदिव्यं महाकुण्डलिनी स्वयम्। कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा॥

ब्रह्मविष्णुमयं वर्णं विन्दुत्रयसमन्वितम्।

(ओ)-ओकारं चञ्चलापाङ्गि पञ्चदेवमयं सदा। रक्तविद्युल्लताकारं त्रिगुणात्मानमीश्वरीम्॥ पञ्चप्राणमयं वर्णं नमामि देवमातरम्। एतद्वर्णं महेशानि स्वयं परमकुण्डली॥

(औ)- रक्तविद्युल्लताकारं औकारं कुण्डली स्वयम्। अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये॥

पञ्चप्राणमयं वर्णं तथा शिवमयं सदा॥

(अं)- सदा ईश्वरसंयुक्तं चतुर्वर्गप्रदायकम्। अङ्कारं विन्दुसंयुक्तं

पीतविद्युतसमप्रभम्॥

पञ्चप्राणमयं वर्णं ब्रह्मादिदेवतामयम्।

(अः)- सर्वज्ञानमयं वर्णं विन्दुत्रयसमन्वितम्। अः कारं परमेशानि

विसर्गसहितं सदा॥

पञ्चदेवमयं वर्णं पञ्चप्राणमयः सदा। सर्वज्ञानमयोवर्णः आत्मादि तत्त्वसंयुतः॥

(क)- जपायावकसिन्दूरमदृशीं कामिनीं पराम्। चतुर्भुजां त्रिनेत्रां च बाहुबल्लीविराजिताम्॥

कदम्बकोरकाकारस्तनद्वयविभूषितम्। रत्नकंकणकेयूरैरङ्गदैरुपशोभिताम्। रत्नहारैः पुष्पहारैः शोभितां परमेश्वरीम्। एवं हि कामिनीं व्यात्वा ककारं दशधा जपेत्॥

(ख)- खकारं परमेशानि कुण्डलीत्रयसंयुतम्। खकारं परमाश्चर्यं शङ्खकुन्दसमप्रभम्॥

कोणत्रययुतं रम्यं विन्दुत्रयसमन्वितम्। गुणत्रययुतं देवि पञ्चदेवमयं सदा॥

त्रिशक्तिसंयुतं वर्णं सर्व शक्त्यात्मकं प्रिये।

(ग)- गकारं परमेशानि पञ्चदेवात्मकं सदा। निर्गुणं त्रिगुणोपेतं निरीहं निर्मलं सदा॥

पञ्चप्राणमयं वर्णं गकारं प्रणमाम्यहम्॥

(घ)- अरुणादित्यसङ्काशं कुण्डलीं प्रणमाम्यहम्। घकारं चञ्चलापाङ्गि चतुष्कोणात्मकं सदा। पञ्चदेवमयं वर्णं तरुणादित्यसन्निभम्। निर्गुणं त्रिगुणोपेतं सदा त्रिगुणसंयुतम्। सर्वगं सर्वदं शान्तं घकारं प्रणमाम्यहम्॥

(ङ)- ङकारं परमेशानि स्वयं परमकुण्डली। सर्वदेवमयं वर्णं त्रिगुणं लोललोचने॥

पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम्॥

(च)-चवर्णं श्रृणु सुश्रोणि चतुर्वर्गप्रदायकम्। कुण्डलीसहितं देवि स्वयं परमकुण्डली॥

रक्त विद्युतल्लताकारं सदा त्रिगुणसंयुतम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा॥

त्रिशक्ति सहितं वर्णं त्रिविन्दुसहितं सदा।

(छ)- छकारं परमाश्चर्यं स्वयं परमकुण्डली। सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा॥

पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा। त्रिविन्दुसहितं वर्णं सदा ईश्वरसंयुतम्॥

पीतविद्युल्लताकारं छकारं प्रणमाम्यहम्।

(ज)- जकारं परमेशानि या स्वयं मध्य कुण्डली। शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम्॥

पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा। त्रिशक्ति सहितं वर्णं त्रिविन्दुसहितं प्रिये॥


(झ)- झकारं परमेशानि कुण्डलीमोक्षरुपिणी। रक्तविद्युल्लताकारं सदा त्रिगुणसंयुतम्॥

पञ्चदेवमयं वर्णं पञ्चप्राणात्मकमं सदा। त्रिविन्दुसहितं वर्णं त्रिशक्तिसहितं सदा॥

(ञ)- सदा ईश्वरसंयुक्तं ञकारं श्रृणु पार्वति। रक्तविद्युल्लताकारं स्वयं परमकुण्डली॥

पञ्चदेवमयं वर्णं पञ्चप्राणात्मकमं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा॥

(ट)- टकारं चञ्चलापाङ्गि स्वयं परमकुण्डली। पञ्चदेवमयं वर्णं पञ्च प्राणात्मकमं सदा॥

त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा॥

(ठ)- ठकारं चञ्चलापाङ्गि कुण्डली मोक्षरुपिणी। पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम्॥

पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा। त्रिविन्दुसहितं वर्णं त्रिशक्तिसहितं सदा॥

(ड)- डकारं चञ्चलापाङ्गि सदा त्रिगुणसंयुतम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं तथा॥

त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा। चतुर्ज्ञानमयं वर्णमात्मादितत्त्वसंयुतम्॥

पीतविद्युल्लताकारं डकारं प्रणमाम्यहम्॥

(ढ)- ढकारं परमाराध्यं या स्वयं कुण्डली परा। पञ्चदेवात्मकं वर्णं पञ्चप्राणमयंसदा॥

सदात्रिगुणसंयुक्तंआत्मादितत्त्वसंयुतम्। रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम्॥

(ण)- णकारं परमेशानि या स्वयं परमकुण्डली। पीतविद्युल्लताकारं पञ्चदेवमयं सदा॥

पञ्चप्राणमयं देवि सदा त्रिगुणसंयुतम्। आत्मादितत्त्वसंयुक्तं महासौख्यप्रदायकम्।

(त)- तकारं चञ्चलापाङ्गि स्वयं परमकुण्डली। पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं तथा॥

त्रिशक्ति सहितं वर्णमात्मादितत्त्वसंयुतम्। त्रिविन्दुसहितं वर्णं पीतविद्युत्समप्रभम्॥

(थ)- थकारं चञ्चलापाङ्गि कुण्डली मोक्षरुपिणी। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा॥

पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये। तरुणादित्यसङ्काशं थकारं प्रणमाम्यहम्॥

(द)- दकारं श्रृणु चार्वङ्गि चतुर्वर्गप्रदायकम्। पञ्चदेवमयं वर्णं त्रिशक्तिसहितं सदा॥

सदा ईश्वरसंयुक्तं त्रिविन्दुसहितं सदा। आत्मादितत्त्वसंयुक्तं स्वयं परमकुण्डली॥

रक्तविद्युल्लताकारं दकारं हृदि भावय॥

(ध)- धकारं परमेशानि कुण्डली मोक्षरुपिणी। आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं सदा॥

पञ्चप्राणमयं देवि त्रिशक्तिसहितं सदा। त्रिविन्दुसहितं वर्णं धकारं हृदि भावय॥

पीतविद्युल्लताकारं चतुर्वर्गप्रदायकम्॥

(न)- नकारं श्रृणु चार्वङ्गि रक्तविद्युल्लताकृतिम्। पञ्चदेवमयं वर्णं स्वयं परमकुण्डली॥

पञ्चप्राणात्मकं वर्णं त्रिविन्दुसहितं सदा। त्रिशक्तिसहितं

वर्णमात्मादितत्त्वसंयुतम्। चतुर्वर्गप्रदं वर्णं हृदि भावय पार्वति॥

(प)- अतः परं प्रवक्ष्यामि पकारं मोक्षमव्ययम्। चतुर्वर्गप्रदं वर्णं शरच्चन्द्रसमप्रभम्॥

पञ्चदेवमयं वर्णं स्वयं परमकुण्डली। पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा॥

त्रिविन्दुसहितं वर्णंमात्मादितत्त्वसंयुतम्। महामोक्षप्रदं वर्णंहृदि भावय पार्वति॥

(फ)- फकारं श्रृणु चार्वङ्गि रक्तविद्युल्लतोपमम्। चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा॥

पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम्। आत्मादितत्त्वसंयुक्तं त्रिविन्दुसहितं सदा॥

(ब)- बकारं श्रृणु चार्वङ्गि चतुर्वर्गप्रदायकम्। शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा॥

पञ्चप्राणात्मकं वर्णं त्रिविन्दुसहितं सदा। त्रिशक्तिसहितं वर्णं निविडाऽमृतनिर्मलम्॥

स्वयं कुण्डलिनी साक्षात् सततं प्रणमाम्यहम्॥

(भ)- भकारं चञ्चलापाङ्गि स्वयं परमकुण्डली। महामोक्षप्रदं वर्णं पञ्चदेवमयं सदा॥

त्रिशक्ति सहितं वर्णं त्रिविन्दुसहितं प्रिये।

(म)- मकारं श्रृणु चार्वङ्गि स्वयं परमकुण्डली। महामोक्षप्रदं वर्णं पञ्चदेवमयं सदा॥

तरुणादित्यसङ्काशं चतुर्वर्गप्रदायकम्। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा॥

आत्मादितत्त्वसंयुक्तं हृदिस्थं प्रणमाम्यहम्॥

(य)- यकारं श्रृणु चार्वङ्गि चतुष्कोमयं सदा। पलालधूमसङ्काशं स्वयं परमकुण्डली॥

पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं तथा॥

प्रणमामि सदा वर्णं मूर्तिमान् मोक्षमव्ययम्॥

(र)- रकारं चञ्चलापाङ्गि कुण्डलीद्वयसंयुतम्। रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा॥

पञ्चप्राणमयं वर्णं त्रिविन्दुसहितं सदा। त्रिशक्तिसहितं देवि आत्मादितत्त्वसंयुतम्॥

(ल)- लकारं चञ्चलापाङ्गि कुण्डलीद्वयसंयुतम्। पीतविद्युल्लताकारं सर्वरत्नप्रदायकम्॥

पञ्चदेवमयं वर्णं पञ्चप्राणमं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा॥

आत्मादितत्त्वसंयुक्तं हृदि भावय पार्वति

(व)- वकारं चञ्चलापाङ्गि कुण्डलीमोक्षमव्ययम्। पलालधूमसंकाशं पञ्चदेवमयं सदा। पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा॥

त्रिविन्दुसहितं वर्णमात्मादितत्त्वसंयुतम्॥

(श)- शकारं चञ्चलापाङ्गि कुण्डलीतत्त्वसंयुतम्। पीतविद्युल्लताकारं सर्वरत्नप्रदायकम्॥

पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा॥

आत्मादितत्त्वसंयुक्तं हृदि भावय पार्वति॥

(ष)- षकारं श्रृणुचार्वङ्गि अष्टकोणमयं सदा। रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली॥

चतुर्वर्गप्रदं वर्णं सुधानिर्मितविग्रहम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा॥

रजःसत्त्वतमोयुक्तं त्रिशक्ति सहितं सदा। त्रिविन्दुसहितं वर्णमात्मादितत्त्वसंयुतम्। सर्वदेवमयं वर्णं हृदि भावय पार्वति॥

(स)- सकारं श्रृणु चार्वङ्गि शक्तिबीजं परात्परम्। कोटिविद्युल्लताकारं कुण्डलीत्रयसंयुतम्॥

पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा। रजःसत्त्वतमोयुक्तं त्रिविन्दुसहितं सदा॥

प्रणम्य सततं देवि हृदि भावय पार्वति॥

(ह)- हकारं श्रृणु चार्वङ्गि चतुर्वर्गप्रदायकम्। कुण्डलीत्रयसंयुक्तं रक्तविद्युल्लतोपमम्॥

रजःसत्त्वतमोवायु पञ्चदेवमयं सदा। पञ्चप्राणमयं वर्णं हृदि भावय पार्वति॥

(क्ष)- क्षकारं श्रृणु चार्वङ्गि कुण्डलीत्रयसंयुतम्। चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा॥

पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा। त्रिविन्दुसहितं वर्णांत्मादितत्त्वसंयुतम्। रक्तचन्द्रप्रतीकाशं हृदि भावय पार्वति॥